वांछित मन्त्र चुनें

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्द्धयामसि। बृ॒हच्छो॑चा यविष्ठ्य ॥३॥

मन्त्र उच्चारण
पद पाठ

तम्। त्वा॒। स॒मि॒द्भिरिति॑ स॒मित्ऽभिः॑। अ॒ङ्गि॒रः॒। घृ॒तेन॑। व॒र्द्ध॒या॒म॒सि॒। बृ॒हत्। शो॒च॒। य॒वि॒ष्ठ्य॒ ॥३॥

यजुर्वेद » अध्याय:3» मन्त्र:3


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

मनुष्यों को उक्त अग्नि की नित्य वृद्धि करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हम लोग जो (अङ्गिरः) पदार्थों को प्राप्त कराने वा (यविष्ठ्य) पदार्थों के भेद करने में अति बलवान् (बृहत्) बड़े तेज से युक्त अग्नि (शोच) प्रकाश करता है (तम्) उसको (समिद्भिः) काष्ठादि वा (घृतेन) घी आदि से (वर्द्धयामसि) बढ़ाते हैं ॥३॥
भावार्थभाषाः - मनुष्यों को जो सब गुणों से बलवान् पूर्व कहा हुआ अग्नि है, वह होम और शिल्पविद्या की सिद्धि के लिये लकड़ी, घी आदि साधनों से सेवन करके निरन्तर वृद्धियुक्त करना चाहिये ॥३॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

मनुष्यैः स नित्यं वर्द्धनीय इत्युपदिश्यते ॥

अन्वय:

(तम्) भौतिकमग्निम् (त्वा) यः। अत्र व्यत्ययः (समिद्भिः) काष्ठादिभिः (अङ्गिरः) अङ्गति प्रापयति यः सोऽङ्गिरः। अङ्गाराऽअङ्कनाऽअञ्चनाः (निरु०३.१७) (घृतेन) पूर्वोक्तेन (वर्द्धयामसि) वर्द्धयामः। अत्र इदन्तो मसि [अष्टा०७.१.४६] इतीकारादेशः। (बृहत्) महत् यथा स्यात् तथा (शोच) शोचति प्रकाशते। अत्र व्यत्ययेन लडर्थे लोट्। द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घश्च। (यविष्ठ्य) योऽतिशयेन युवा पदार्थानाममिश्रीकरणे बलवान् सः। यविष्ठ एव यविष्ठ्यः। अत्र युवन् शब्दादिष्ठन् प्रत्ययस्ततो नवसूरमर्तयविष्ठेभ्यो यत् (अष्टा०वा०५.४.३६) इति वार्तिकेन स्वार्थे यत्प्रत्ययः। अयं मन्त्रः (शत०१.३.३.२५-२६) व्याख्यातः ॥३॥

पदार्थान्वयभाषाः - वयं योऽङ्गिरोऽङ्गिरा यविष्ठ्य यविष्ठ्योग्निर्बृहच्छोचमहद् यथा स्यात्, तथा शोचति प्रकाशते त्वा तं समिद्भिर्घृतेन वर्द्धयामसि वर्द्धयामः प्रदीपयामः ॥३॥
भावार्थभाषाः - मनुष्यैर्यो गुणैर्महान् पूर्वोक्तोऽग्निर्वर्त्तते, स होमशिल्पविद्यासिद्धये साधनैरिन्धनादिभिः सेवित्वा नित्यं वर्द्धनीय इति ॥३॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी सर्वात बलवान असलेल्या अग्नीला होमात किंवा शिल्पविद्येच्या सिद्धीसाठी समिधा, घृत इत्यादी पदार्थ वापरून त्याला सतत प्रज्वलित ठेवावे.